४१. द्रव्यविशेषविज्ञानीयाध्यायः
अथातो द्रव्यविशेषविज्ञानीयमध्यायं [१] व्याख्यास्यामः ||१||
यथोवाच भगवान्धन्वन्तरिः ||२||
अथातइत्यादि| द्रव्यस्य विशेषो भेदः पार्थिवादिकः||१-२||
तत्र पृथिव्यप्तेजोवाय्वाकाशानां [२] समुदायाद्द्रव्याभिनिर्वृत्तिः, उत्कर्षस्त्वभिव्यञ्जकोभवति- इदंपार्थिवमिदमाप्यमिदंतैजसमिदंवायव्यमिदमाकाशीयमिति ||३||
तत्रसर्वेषामेव द्रव्याणां पञ्चभूताभिनिर्वृत्तत्वात् पृथग्द्रव्याणां पृथिव्याद्यारब्धानां परमार्थभेदो नास्तीत्युत्कर्षोपाधिभेदं दर्शयन्नाह- तत्रेत्यादि| समुदायात् समवायात्| द्रव्याभिनिर्वृत्तिर्द्रव्यजन्म| अभिव्यञ्जको ज्ञापकः||३||
तत्र स्थूलसान्द्रमन्दस्थिरगुरुकठिनं [३] गन्धबहुलमीषत्कषायं [४] प्रायशोमधुरमिति पार्थिवं; तत्स्थैर्यबलगौरवसङ्घातोपचयकरं विशेषतश्चाधोगतिस्वभावमिति(१) |४|
तत्रप्रभूतं द्रव्याभिव्यक्तिकारणं पृथिव्यादिभूतगुणोत्कर्षं निर्दिशन्नाह- तत्र स्थूलेत्यादि| स्थूलः सूक्ष्मविपरीतः, सान्द्रस्तनुविपर्ययः, मन्दस्तीक्ष्णविपर्ययः, सरविपरीतः स्थिरः, गुरुश्चिरपाकी, कठिनो मृदुविपरीतः| पार्थिवस्य लक्षणाभिधानेन गुणवत्त्वमभिधाय क्रियावत्त्वं दर्शयन्नाह- तत्र स्थैर्येत्यादि| स्थैर्यमचलत्वं, सङ्घातः काठिन्यम्, उपचयो बृंहणम्||४(१)||
शीतस्तिमितस्निग्धमन्दगुरुसरसान्द्रमृदुपिच्छिलं रसबहुलमीषत्कषायाम्ललवणं मधुररसप्रायमाप्यं; तत् स्नेहनह्लादनक्लेदनबन्धनविष्यन्दनकरमिति;(२) |४|
इदानीमाप्यद्रव्यमब्गुणोत्कर्षेणभिन्नं दर्शयन्नाह- शीतमित्यादि| स्तिमितमार्द्रं, जडमित्यन्ये| आप्यस्य लक्षणाभिधानेन गुणवत्त्वमभिधाय क्रियावत्त्वं दर्शयन्नाह- तत् स्नेहनेत्यादि| ह्लादनं सुखोत्पादनं, क्लेदनमार्द्रभावः, बन्धनं संहत्यापादनं, विष्यन्दनं द्रवस्रुतिः||४ (२)||
उष्णतीक्ष्णसूक्ष्मरूक्षखरलघुविशदं रूपबहुलमीषदम्ललवणं कटुकरसप्रायं विशेषतश्चोर्ध्वगतिस्वभावमितितैजसं; तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकरमिति;(३) |४|
आग्नेयद्रव्यलक्षणंतद्भूतगुणोत्कर्षेण दर्शयन्नाह- उष्णेत्यादि| तीक्ष्णं राजिकामरिचादिवत्, सूक्ष्मं स्रोतोनुसरणशीलं, विशदं पिच्छिलविपरीतम्| तस्य क्रियावत्त्वं दर्शयन्नाह- दहनेत्यादि| दहनं भस्मसात्करणं, पचनमाहारादिपाकः, दारणं व्रणादेः, तापनं शरीरादिसन्तापनं, प्रकाशनमभिव्यक्तिः, प्रभा तेजः, वर्णो गौरादिः||४(३)||
सूक्ष्मरूक्षखरशिशिरलघुविशदं स्पर्शबहुलमीषत्तिक्तंविशेषतःकषायमिति वायवीयं; तद्वैशद्यलाघवग्लपनविरूक्षणविचारणकरमिति;(४) |४|
वायुगुणोत्कर्षाद्वायव्यंद्रव्यविशेषं दर्शयन्नाह- सूक्ष्मेत्यादि| खरं कर्कोटकफलवत्, शिशिरं शीतं, विशदं धूलिवत्| तस्यैव कर्म दर्शयन्नाह- तद्वैशद्येत्यादि| ग्लपनमवृष्यत्वं, विचारणं मनसोऽनेकविकल्पकारणं; ‘विचरणकरम्’ इत्यन्येपठन्ति, तत्र गतिविशेषकरमित्यर्थः; ‘विधारणम्’ इत्यन्ये||४(४)||
श्लक्ष्णसूक्ष्ममृदुव्यवायिविशदविविक्तमव्यक्तरसं शब्दबहुलमाकाशीयं; तन्मार्दवशौषिर्यलाघवकरमिति(५) ||४||
आकाशगुणोत्कर्षेणाकाशीयंद्रव्यविशेषं दर्शयन्नाह- श्लक्ष्णेत्यादि| श्लक्ष्णं मसृणं, मृदु कोमलं, व्यवायीति समस्तदेहं व्याप्य पश्चात् पाकं गच्छति विषमद्यवत्, विविक्तं पृथग्भूतम्, अवयवद्वारेण शून्यमित्यन्ये, अव्यक्तरसं मधुरादिरसविशेषानुपलब्धेः| तस्य कर्माणि निर्दिशन्नाह- तन्मार्दवेत्यादि| शौषिर्यं छिद्रभावः ||४(५)||
अनेन [५] निदर्शनेननानौषधीभूतंजगतिकिञ्चिद्द्रव्यमस्तीतिकृत्वातंतंयुक्तिविशेषमर्थं चाभिसमीक्ष्यस्ववीर्यगुणयुक्तानि द्रव्याणि कार्मुकाणि [६] भवन्ति |
तानि यदा कुर्वन्ति स कालः, यत् कुर्वन्ति तत् कर्म, येन कुर्वन्ति तद्वीर्यं, यत्र कुर्वन्ति तदधिकरणं, यथा कुर्वन्ति स उपायः, यन्निष्पादयन्ति तत् फलमिति ||५||
इदानींसर्वस्यैव जगतः स्थावरजङ्गमाख्यस्य पाञ्चभौतिकत्वेन सर्वमौषधं क्रियागुणयोगादिभिर्दर्शयन्नाह- अनेनेत्यादि| नानौषधिभूतमिति अनौषधिभूतं द्रव्यं नास्तीति सम्बन्धः| युक्तिविशेषमिति युक्तिविशेषो योजनाविशेषस्तोयाग्निसंस्कारवासनभावनामात्राकालाद्यपेक्षः| अर्थं चेति| अर्थः प्रयोजनं नानाव्याधिनिर्घातनं, वीर्यं शक्तिः शीतोष्णादयो वाऽष्टौ शक्तिमन्तो गुणाः, गुणा गुर्वादयः, अन्ये तु वीर्यप्रधाना गुणावीर्यगुणास्ते पुनः सरत्वादयः| कार्मुकाणि कार्यकराणि| तानि द्रव्याणि यदा यस्मिन् काले, क्रियां कुर्वन्ति स कालः; कालश्चसंवत्सरात्मा ऋत्वाख्यः शीतोष्णवर्षलक्षणश्चातुरावस्थिकश्चाभिप्रेतः| यदित्यादि कर्मशब्देनात्र भेषजद्रव्यव्यापारः शोधनादिरुक्तः| येनेत्यादि| वीर्यमिति शक्तिः| यत्रेत्यादि| अधिकरणमिति पञ्चमहाभूतशरीरिसमवायिलक्षणःपुरुषोऽधिकरणम्| यथेत्यादि| येन स्वरसकल्कशृतशीतफाण्टघृततैललेहमोदकोत्कारिकादिप्रकारेणकुर्वन्ति स उपायः| यदितिस्वास्थ्यमस्वास्थ्यंवा||५||
तत्र, विरेचनद्रव्याणिपृथिव्यम्बुगुणभूयिष्ठानि, पृथिव्यापो गुर्व्यः, तानि [७] गुरुत्वादधोगच्छन्ति, तस्माद्विरेचनमधोगुणभूयिष्ठमनुमानात् [८] ;
वमनद्रव्याण्यग्निवायुगुणभूयिष्ठानि, अग्निवायु हिलघू, लघुत्वाच्चतान्यूर्ध्वमुत्तिष्ठन्ति, तस्माद्वमनमप्यूर्ध्वगुणभूयिष्ठम्;
उभयगुणभूयिष्ठमुभयतोभागम्;
आकाशगुणभूयिष्ठं संशमनं;
साङ्ग्राहिकमनिलगुणभूयिष्ठम्, अनिलस्य शोषणात्मकत्वात्;
दीपनमग्निगुणभूयिष्ठं, तत्समानत्वात्;
लेखनमनिलानलगुणभूयिष्ठं; बृंहणंपृथिव्यम्बुगुणभूयिष्ठम्; एवमौषधकर्माण्यनुमानात् साधयेत् ||६||
भवन्ति चात्र-
भूतेजोवारिजैर्द्रव्यैः शमं यातिसमीरणः |
भूम्यम्बुवायुजैः पित्तं क्षिप्रमाप्नोतिनिर्वृतिम् ||७||
खतेजोऽनिलजैः श्लेष्मा शममेतिशरीरिणाम् |
Akasha + vayu वियत्पवनजाताभ्यां वृद्धिमभ्येति मारुतः ||८||
आग्नेयमेव यद्द्रव्यं तेनपित्तमुदीर्यते |
वसुधाजलजाताभ्यांबलासः परिवर्धते ||९||
तत्रेत्यादि| गुरुत्वादिति गुरुत्वलघुत्वे चेह प्रभावविशेषाधिष्ठिते त्रिवृतादिमदनफलादिद्रव्यसमवेतेग्राह्ये, न तु गुरुत्वलघुत्वमात्रे; अन्यथा मत्स्यपिष्टान्नमसूरादीनां विरेचकत्वं कपिञ्जललावादीनां च वामनीयत्वं स्यात्| अधो गच्छन्ति उपलादिवत्| अधोगुणभूयिष्ठं पृथिव्यम्बुगुणभूयिष्ठमित्यर्थः| वमनेत्यादि ऊर्ध्वमुत्तिष्ठन्तीति धूमवज्ज्वालावच्च| वमनद्रव्यमूर्ध्वगुणभूयिष्ठम्अग्निवायुगुणभूयिष्ठमित्यर्थः| उभयगुणभूयिष्ठमिति विरेचनवमननिर्दिष्टभूतचतुष्टयगुणभूयिष्ठमित्यर्थः| संशमनमिति “न शोधयति यद्दोषान्समान्नोदीरयत्यपि| समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते” इति| लेखनं कफमेदसोः| निर्वृतिः शान्तिः||६-९||
एवमेतद्गुणाधिक्यं द्रव्येद्रव्येविनिश्चितम् |
द्विशो वाबहुशोवाऽपिज्ञात्वादोषेषु [९] चाचरेत् ||१०||
एवमित्यादि| एवमनेन प्रकारेण| एतत् पूर्वोक्तम्| द्विश इति द्वयोर्द्वयोर्दोषयोः| बहुश इति बहूनां दोषाणामित्यर्थः| दोषेषु चाचरेदिति चकाराद्रोगेष्वप्येवमाचरेदितिसमुच्चीयते||१०||
तत्र यइमेगुणावीर्यसञ्ज्ञकाः शीतोष्णस्निग्धरूक्षमृदुतीक्ष्णपिच्छिलविशदास्तेषां [१०] तीक्ष्णोष्णावाग्नेयौ, शीतपिच्छिलावम्बुगुणभूयिष्ठौ [११] , पृथिव्यम्बुगुणभूयिष्ठः [१२] स्नेहः, तोयाकाशगुणभूयिष्ठं मृदुत्वं, वायुगुणभूयिष्ठं रौक्ष्यं, क्षितिसमीरणगुणभूयिष्ठं [१३] वैशद्यं; विपाकावुक्तगुणौ |
तत्र, उष्णस्निग्धौ वातघ्नौ, शीतमृदुपिच्छिलाः पित्तघ्नाः, तीक्ष्णरूक्षविशदाः श्लेष्मघ्नाः [१४] गुरुपाको वातपित्तघ्नः, लघुपाकः श्लेष्मघ्नः |
तेषां मृदुशीतोष्णाः [१५] स्पर्शग्राह्याः, पिच्छिलविशदौ चक्षुःस्पर्शाभ्यां, स्निग्धरूक्षौ चक्षुषा, तीक्ष्णो मुखेदुःखोत्पादनात् [१६] |
गुरुपाकः सृष्टविण्मूत्रतया कफोत्क्लेशेन च, लघुर्बद्धविण्मूत्रतया मारुतकोपेन च |
तत्र तुल्यगुणेषुभूतेषुरसवैशेष्यमुपलक्षयेत् |
तद्यथा- मधुरो गुरुश्च पार्थिवः, मधुरःस्निग्धश्चाप्य इति ||११||
तत्रेत्यादि| इमे वक्ष्यमाणाः| विपाकयोर्मधुरकटुकयोः प्रागुक्ता गुणाः| तत्रोष्णेत्यादि उष्णस्निग्धौ वीर्यसञ्ज्ञौ गुणौ| तेषामष्टानां वीर्याणां मध्ये| मुखे दुःखोत्पादनादिति अत्र चार्थो द्रष्टव्यः, तेन घ्राणदुःखोत्पादनाच्चेति द्रष्टव्यम्| स्निग्धश्चेति चाकाराद्गुरुश्च||११||
भवति चात्र-
गुणा यउक्ताद्रव्येषुशरीरेष्वपितेतथा |
स्थानवृद्धिक्षयास्तस्माद्देहिनांद्रव्यहेतुकाः ||१२|| REF.
गुणाइत्यादि| गुणा विंशतिरधिका वा| स्थानं दोषधातुमलसाम्येनावस्थानं, वृद्धिर्दोषादेराधिक्यं, क्षयः ह्रासो दोषादीनाम्| द्रव्यहेतुकाः पाञ्चभौतिकद्रव्यहेतुकाः||१२||
इति सुश्रुतसंहितायांसूत्रस्थानेद्रव्यविशेषविज्ञानीयोनामैकचत्वारिंशत्तमोऽध्यायः ||४१||
इतिश्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने एकचत्वारिंशत्तमोऽध्यायः||४१||
१. ‘पूर्वाध्यायोक्तद्रव्यस्यतत्रानुक्तविशेषविज्ञानार्थं, तथा तदधिकारेण च वीर्यविपाकयोर्ज्ञानार्थं द्रव्यविशेषविज्ञानीयोऽभिधीयते| द्रव्यस्य पाञ्चभौतिककार्यद्रव्यस्य पार्थिवत्वादय इह विशेषा विवक्षिताः’ इतिचक्रः|
२. ‘सर्वकार्यद्रव्याणांपञ्चभूतारब्धत्वं दर्शयित्वा| चिकित्सोपयुक्तं पार्थिवत्वादिविशेषमाह- तत्र पृथिव्यप्तेज इत्यादि| समुदायादिति मेलकात्| पृथिवीजलादीनां च यद्यपि विरुद्धगुणत्वंतथाऽप्यदृष्टवशादेकद्रव्यरूपकार्यारम्भकंदृष्टत्वादेव भवति| यथा वातादीनामेकव्याध्यारम्भकत्वं, शुक्रशोणितयोगर्भजनकत्वं, सत्त्वरजस्तमसां वा महदाद्यारम्भकत्वम्| उत्कर्षः प्रत्येकंपृथिव्याद्युत्कर्षः| अभिव्यञ्जक इति पार्थिवत्वाद्यभिव्यञ्जकः’ इतिचक्रः|
३. हाराणचन्द्रस्तु ‘स्थूलसारसान्द्र’ इत्यादिपठति, ‘सारं स्थिरांशं पाकादिभिः क्षयापचयरहितमित्येतत्’ इतिच व्याख्यानयति|
४. ‘अत्र गुणे गन्धबहुलमिति वचनात् पृथिव्याः सांसिद्धिकेन गन्धबाहुल्येन योगं दर्शयति| एवं जलादिष्वपि सांसिद्धिकेन रसादिविशेषेण योगं दर्शयन् बहुलशब्दं करिष्यति| ईषत्कषायमिति पृथिव्यनिलयोगाज्ज्ञेयं, यद्वक्ष्यति- ‘पृथिव्यनिलगुणबाहुल्यात् कषायः’ इति, प्रायशो मधुरमिति मधुरप्रधानं, पृथिव्या मधुररसकारणत्वात्’ इतिचक्रः|
५. ‘एवं तदुक्तपार्थिवादिद्रव्यस्वरूपस्यसर्वस्थावरजङ्गमस्य भेषजताप्रतिपत्तिफलं यथा भवति तदाह- अनेनेत्यादि| निदर्श्यते पार्थिवादीनां स्वरूपमनेनेति निदर्शनमागमः| तेनागमेनेति अनन्तरोक्तेन पार्थिवादिद्रव्यस्वरूपप्रतिपादकेनागमेन| नानौषधिभूतमिति प्रतिषेधद्वयेनौषधिस्वरूपमित्यर्थः| एतदौषधित्वं सर्वद्रव्याणां यथा भवति तदाह- इति कृत्वा तं तं युक्तिविशेषमित्यादि| युक्तिविशेषमिति योजनाप्रकारम्| स च योजनाविशेषोबाह्य आभ्यन्तरो वा शास्त्रे उक्तोवक्ष्यमाणः कालाद्यपेक्षः| अर्थमिति साध्यं| तच्च नानाव्याधिघातेन स्वस्थपालनविशेषरूपम्| स्ववीर्यगुणयुक्तानीति स्वशक्त्या प्रभावेण, गुणेन च रसवीर्यविपाकादिना युक्तानि| कर्मकराणीतकर्मणि समर्थानि| किंवा स्ववीर्ययुक्तानीति स्वकीयकार्यकरधर्मयुक्तानि, कार्यक्षमं हि द्रव्यधर्मं ‘येनकुर्वन्ति तद्वीर्यं’ इत्यनेन वक्ष्यति| गुणशब्दोऽयं धर्मवचनः| एतदेवोक्तं युक्त्यपेक्षकार्यविशेषे वीर्यगुणयुक्तस्य द्रव्यस्य कर्तृत्वं भेदेनाह- तानि यदेत्यादिना तत्फलमित्यन्तेन| येनेति प्रभावेण रसेन वीर्येण विपाकेन वा| अयं च वीर्यशब्दः पारिभाषिकवीर्यवचनोन भवति, किन्तु शक्तिमात्रवचनः| तेन प्रभावरसादयः सर्व एव स्वकार्यं कुर्वन्तोद्रव्यस्य शक्तिपर्यायरूपवीर्यवाच्या इति ज्ञेयाः| यन्निष्पादयन्तीति आरोग्यविशेषं स्वस्थानुवृत्तिविशेषं रसायनफलं वा| अत्र सर्वद्रव्यभेषजत्वकथनं विषाग्निप्रभृतीनामपि तत्साध्यं प्रति क्वचिद्विहितत्वाद्युक्तमेव| येन विषं विषहरणे उदरे च विधीयत एव| यत्तु मधुघृतादिसंयोगादिना विरुद्धं, तत् प्रत्येकं भेषजं क्वचिद्भवत्येव| संयुक्तं च वैरोधिकत्वाद्भेषजं न भवतीतिन काचित् क्षतिः| नह्यत्र सर्वथा द्रव्याणां भेषजत्वं प्रतिज्ञातं, किन्तु विवक्षितयोजनादियुक्तत्वेनेति’ इतिचक्रः|
६. ‘कर्मकराणि’ इतिपा.|
७. ‘ता’ इति पा.|
८. ‘अनुमानाल्लक्षयेदितिविरेचने यानि त्रिवृतादिद्रव्याण्युक्तानितानि पृथिव्यम्बुगुणगुरुत्वयुक्तान्यनुमानाज्ज्ञेयानि| गुरुत्वानुमानेन च गुरुत्वकार्यान्तरवातशमनाग्न्यननुगुणत्वादि ज्ञायते| यत्तु पृथिव्यम्बुगुणेन गुरुत्वादिभूयिष्ठानुमानं तन्न युज्यते, न हि यत्पृथिव्यम्बुगुणगुरुत्वभूयिष्ठंतत् सर्वं विरेचनं, तथा सति माषादीनामपि गुरुत्वाद्विरेचकत्वप्रसक्तिः| तस्माद्विरेचकत्वप्रभावसहितंगुरुत्वं विरेचकम्| प्रभावप्रतीतिश्च यतः प्रमाणादागमादन्यतो वा तत एवच विरेचकं प्रतिपन्नमिति| लघुत्वादूर्ध्वमुत्तिष्ठते इत्यत्रापि प्रभावसहितादिति ज्ञेयम्| वायुश्च यद्यपि तिर्यग्गतिस्तथाऽप्यूर्ध्वगेनाग्निनायुक्तो योगवाहित्वादूर्ध्वं गच्छतीति युक्तम्|’ इति चक्रः|
९. ‘दोषेष्विति द्रव्यगुणविपरीतगुणेषु, दोषविपरीतगुणं हि द्रव्यं भेषजमितिव्यवस्थितमेव’ इतिचक्रः| ‘दोषेऽवचारयेत्’ इतिपा.|
१०. ‘गुरुलघुमृदुतीक्ष्णा’ इतिहाराणचन्द्रसम्मतः पाठः|
११. ‘गुरुशीतौ पृथिव्यम्बुगुणभूयिष्ठौ’ इतिहा.पा.|
१२. ‘अम्बुगुणभूयिष्ठः’ इतिहा.पा.|
१३. ‘अग्न्याकाशसमीरणगुणभूयिष्ठंलघुत्वं’ इतिहा. पा.|
१४. ‘गुरूष्णस्निग्धा वातघ्नाः, मृदुशीतौ पित्तघ्नौ, लघुतीक्ष्णरूक्षाः श्लेष्मघ्नाः’ इतिहा.पा.|
१५. ‘मृदुशीतोष्णानां स्पर्शेनापि ग्रहणं भवतीति स्पर्शग्राह्या इत्युक्ताः| येन सैन्धवगतं शीतत्वमानूपमांसगतमौष्ण्यमित्यादिन स्पर्शग्राह्यं, किन्तु कार्यानुमेयमागमप्रतिपादनीयंवा, एवमस्पर्शादिग्राह्येष्वपि तदुदाहरणमनुसरणीयम्’ इतिचक्रः|
१६. ‘तेषां शीतोष्णस्निग्धा ह्लादनपाचनस्तम्भनादिना, रूक्षगुरुलघवो विरूक्षणोपलेपलेखनादिना, तीक्ष्णो दहनपचनादिना, मृदुस्तद्विपर्यासेनानुमीयते’ इतिहा.पा.|
Comentarios