top of page
Dr. GUJAR BROTHERS

AIAPGET Notes on Sushruta Samhita Sutrasthana 40th Adhyaya (४०. द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्य)

४०. द्रव्यरसगुणवीर्यविपाकविज्ञानीयाध्यायः

अथातो द्रव्यरसगुणवीर्यविपाकविज्ञानीयमध्यायंव्याख्यास्यामः ||१||

यथोवाच भगवान्धन्वन्तरिः ||२||



अथातइत्यादि| द्रव्यादीनां विज्ञानं विशिष्टज्ञानं तदधिकृत्य कृतोऽध्याय इत्यर्थः| द्रव्यमौषधमुच्यते, रसो मधुरादिकः, गुणाः शीतोष्णस्निग्धरूक्षमन्दतीक्ष्णगुरुलघुपिच्छिलविशदश्लक्ष्णपरुषकठिनमृदुद्रवसान्द्रस्थिरसरस्थूलसूक्ष्माविंशतिः, वीर्यं चाष्टविधं, तद्यथा- शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णानि, विंशतिगुणानां मध्ये एतेषामष्टानां गुणानां वीर्यमिति सञ्ज्ञा| ननु, गुणाद्वीर्याणां को भेदः? उच्यते- य एव गुणा आमलक्यांत एव हरीतक्याम्, अस्तिच वीर्ये विशेषः; तथाहि- उष्णवीर्या हरीतकी, शीतवीर्यमामलकमिति; एतेनैतदुक्तं भवति- द्रव्यरसगुणविपाकैर्यत् कर्म कर्तुं न शक्यते तत्कर्म कुर्वन् प्रभावो वीर्यमुच्यते, तथाहि- “वीर्यं शक्तिरुत्पत्तिविशेषः, सामर्थ्यं प्रभाव इत्यनर्थान्तरम्”| यद्द्रव्यंपरिणामकाले स्वाभाविकं रसं परित्यज्य रसान्तरं भजते तत्र ‘विपाक’ इति सञ्ज्ञा||१-२||


केचिदाचार्या [१] ब्रुवते- द्रव्यंप्रधानं, कस्मात्? व्यवस्थितत्वात्, इह खलुद्रव्यंव्यवस्थितंनरसादयः, यथा [२] आमेफलेयेरसादयस्तेपक्वेनसन्ति; नित्यत्वाच्च, नित्यं हिद्रव्यमनित्या गुणाः, यथा कल्कादिप्रविभागः, सएवसम्पन्नरसगन्धोव्यापन्नरसगन्धो [३] वाभवति; स्वजात्यवस्थानाच्च, यथाहिपार्थिवंद्रव्यमन्यभावंनगच्छत्येवंशेषाणि; पञ्चेन्द्रियग्रहणाश्च, पञ्चभिरिन्द्रियैर्गृह्यतेद्रव्यं नरसादयः; आश्रयत्वाच्च, द्रव्यमाश्रिता रसादयः; आरम्भसामर्थ्याच्च, द्रव्याश्रित आरम्भः, यथा- ‘विदारिगन्धादिमाहृत्यसङ्क्षुद्यविपचेत्’ इत्येवमादिषुनरसादिष्वारम्भः; शास्त्रप्रामाण्याच्च, शास्त्रे हिद्रव्यंप्रधानमुपदेशेयोगानां, यथा- ‘मातुलुङ्गाग्निमन्थौच’ इत्यादौ नरसादय उपदिश्यन्ते; क्रमापेक्षितत्वाच्चरसादीनां, रसादयोहिद्रव्यक्रममपेक्षन्ते, यथा- तरुणे तरुणाः सम्पूर्णे सम्पूर्णा इति; एकदेशसाध्यत्वाच्च, द्रव्याणामेकदेशेनापिव्याधयःसाध्यन्ते, यथा- महावृक्षक्षीरेणेति; तस्माद्द्रव्यंप्रधानं, नरसादयः, कस्मात्? निरवयवत्वात् |

द्रव्यलक्षणं तु ‘क्रियागुणवत् समवायिकारणम्’ इति ||३||



तत्रप्रत्येकं द्रव्यादिप्राधान्यमेकीयमतेनप्रतिपादयिष्यन् द्रव्यप्राधान्यं प्रथमं सकारणं प्रतिपादयन्नाह- केचिदित्यादि| व्यवस्थितत्वादिति| द्रव्यं हि व्यवतिष्ठते नरसादयः, यथा- आम्रफलमेकमेव प्रथमं कषायाम्लं पश्चादम्लं ततो मधुरमपि भवति, न तु तदेवाम्रफलमाम्रातकंकोशाम्रं वा भवति| द्रव्यप्राधान्येद्वितीयं हेतुमाह- नित्यत्वादित्यादि|- नित्यत्वात् कियत्कालावस्थितत्वादित्यर्थः| अनित्या गुणा इति विनाशिन इत्यर्थः| कल्केत्यादि आदिग्रहणात् स्वरसशृतशीतफाण्टानामपि ग्रहणम्| स एव कल्कादिप्रविभागएव| सम्पन्नरसगन्धो वा भवतीति संयुक्तरसःसंयुक्तगन्धो वा भवतीत्यर्थः| एतेनैतदुक्तंभवति- कल्काद्यवस्थास्वपि द्रव्यं तदेव नान्यतरद्द्रव्यं, रसगन्धौ त्वन्यौ संयुक्तौ भवत इति गुणादनित्यात् [४] द्रव्यं नित्यम्| अन्ये कल्कादिस्थाने ‘कालादिप्रविभागात्’ इतिपठन्ति| तेषां मते आदिग्रहणाज्जलवातदेशसोमसूर्यागृह्यन्ते| तद्यथा- ‘ता एवौषधयो ग्रीष्मेनिःसारा रूक्षा’ (सू. अ.६) इत्यादि| द्रव्यप्राधान्ये तृतीयं हेतुं दर्शयन्नाह- स्वजात्यवस्थानाच्चेति|- स्वस्यां पार्थिवादिजाताववस्थितत्वादित्यर्थः| अन्यभावं न गच्छति आप्यादिजातिंन गच्छति| चतुर्थं कारणं दर्शयन्नाह- पञ्चेत्यादि| पञ्चभिरिन्द्रियैर्द्रव्यं गृह्यते, द्रव्ये गृहीते तदाश्रया गुणा गृहीता भवन्ति; गुणाश्च शब्दस्पर्शरूपरसगन्धाः| द्रव्ये शब्दोऽप्यस्ति; यथा- पार्थिवद्रव्ये कटकटाशब्दः, आप्ये खलखलाशब्दः, तैजसे तटतटाशब्द इत्यादिकः| वायव्यद्रव्यमाकाशद्रव्यं चानुमानग्राह्यममूर्तत्वात्| न रसादय इति रसगुणवीर्यविपाकास्तु न पञ्चेन्द्रियग्राह्या इत्यर्थः| पञ्चमंहेतुं दर्शयन्नाह- आश्रयत्वादित्यादि| आश्रय इदं द्रव्यं रसादीनाम्| षष्ठं हेतुं दर्शयन्नाह- आरम्भेत्यादि| आरम्भसामर्थ्यात् उपक्रमसामर्थ्यादित्यर्थः| सङ्क्षुद्य चूर्णयित्वेत्यर्थः| सप्तमं हेतुं दर्शयन्नाह- शास्त्रेत्यादि| अष्टमं हेतुं दर्शयन्नाह- क्रमेत्यादि| तरुणे तरुणा इति अभिनवे अभिनवा इत्यर्थः| नवमं हेतुमाह- एकदेशेत्यादि| द्रव्यप्राधान्यमभिधाय द्रव्यलक्षणमाह- द्रव्यलक्षणमित्यादि| क्रियागुणवदिति क्रियागुणवद्द्रव्यमित्यर्थः; क्रिया कर्म, गुणा उक्ता विंशतिः| समवायिकारणमपि द्रव्यमेव; यथा- पटे तन्तवः, घटे मृत्पिण्ड इत्यादि; न च क्रियायांक्रिया समवेता, न गुणेषु गुणाश्चसमवेता इति||३||


नेत्याहुरन्ये [५] , रसास्तुप्रधानं; कस्मात्? आगमात्, आगमो हिशास्त्रमुच्यते; शास्त्रेहिरसाअधिकृताः, यथा- रसायत्त आहारइति, तस्मिंस्तुप्राणाः; उपदेशाच्च, उपदिश्यन्तेहिरसाः, यथा- मधुराम्ललवणा वातंशमयन्ति; अनुमानाच्च, रसेन ह्यनुमीयतेद्रव्यं, यथा- मधुरमिति; ऋषिवचनाच्च, ऋषिवचनं वेदो यथा- किञ्चिदिज्यार्थंमधुरमाहरेदिति, तस्माद्रसाःप्रधानं; रसेषु गुणसञ्ज्ञा |

रसलक्षणमन्यत्रोपदेक्ष्यामः ||४||



रसप्राधान्येएकीयं दर्शनं निर्दिशन्नाह- नेत्यादि| नेत्याहुरन्ये द्रव्यप्राधान्यमन्ये न ब्रुवत इत्यर्थः| तस्मिंस्तु प्राणा इति आहारे सति प्राणा इत्यर्थः| रसप्राधान्ये द्वितीयं हेतुमाह- उपदेशादित्यादि| अत्रैव तृतीयं हेतुमाह- अनुमानादित्यादि| चतुर्थं हेतुमाह- ऋषिवचनादित्यादि| इज्यार्थं यागार्थं; मधुरमाहरेदिति मधुररसमाहरेत् आनयेत्, न तु द्रव्यमानयेदिति| गुणस्यापि किमिति न प्राधान्यं साधितमित्याशङ्क्याह- रसेष्वित्यादि| अत्रादिशब्दो लुप्तो द्रष्टव्यः; एतेनैतदुक्तं भवति- रसादिप्राधान्येनैव साधितेन गुणप्रधान्यं साधितं भवति| यथा द्रव्यलक्षणमुक्तं तथा रसस्यापि किमिति नोक्तमित्याह- रसलक्षणमित्यादि| अन्यत्र रसविज्ञानीये||४||


नेत्याहुरन्ये [६] , वीर्यंप्रधानमिति |

कस्मात्? तद्वशेनौषधकर्मनिष्पत्तेः |

इहौषधकर्माण्यूर्ध्वाधोभागोभयभागसंशोधनसंशमनसङ्ग्राहिकाग्निदीपनपीडनलेखनबृंहण- रसायनवाजीकरणश्वयथुकरविलयनदहनदारणमादनप्राणघ्नविषप्रशमनादीनि वीर्यप्राधान्याद्भवन्ति |

तच्च वीर्यंद्विविधमुष्णं शीतं च, अग्नीषोमीयत्वाज्जगतः |

केचिदष्टविधमाहुः- शीतमुष्णं स्निग्धं रूक्षं विशदं [७] पिच्छिलं मृदु तीक्ष्णं चेति |

एतानि वीर्याणिस्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्म कुर्वन्ति |

यथा तावन्महत्पञ्चमूलं कषायं तिक्तानुरसं वातं शमयति, उष्णवीर्यत्वात्; तथाकुलत्थःकषायः, कटुकः पलाण्डुः, स्नेहभावाच्च; मधुरश्चेक्षुरसो वातं वर्धयति, शीतवीर्यत्वात्; कटुका पिप्पली पित्तंशमयति, मृदुशीतवीर्यत्वात्; अम्लमामलकं लवणं सैन्धवं च; तिक्ता काकमाची पित्तंवर्धयति, उष्णवीर्यत्वात्, मधुरा मत्स्याश्च; कटुकंमूलकंश्लेष्माणंवर्धयति, स्निग्धवीर्यत्वात्; अम्लंकपित्थंश्लेष्माणांशमयति, रूक्षवीर्यत्वात्, मधुरंक्षौद्रंच; तदेतन्निदर्शनमात्रमुक्तम् ||५||



अपरेषांवीर्यवादिनां मतं निर्दिशन्नाह- नेत्याहुरन्ये इत्यादि|- ईदृशमन्ये न ब्रुवन्ति| तद्वशेनेतिवीर्यवशेन| कानि पुनस्तान्यौषधकर्माणीत्याह- इहौषधेत्यादि|- संशोधनं व्रणादीनां; संशमनमिति वमनविरेचनादिकं विना तत्स्थमेव शमयति संशमनं, संशमनभेदा एव साङ्ग्रहिकादयः; पीडनमिति शाल्मलीत्वगादीनांव्रणे कर्मविशेषः; लेखनं पत्तलीकरणं; बृंहणं शरीरवृद्धिकरं; रसायनं वयःस्थापनादिकरणं; वाजीकरणं वाजिवद्येनाप्रतिहतः स्त्रियं याति, अन्ये तु वाजिशब्देन शुक्रमुच्यते, ततोऽवाजिनो वाजिनः क्रियन्ते येनेति वाजीकरणं, शुक्रोत्पादकमित्याहुः; श्वयथुकरविलयनेति करविलयनशब्दौ श्वयथुशब्देन सह प्रत्येकं सम्बध्येते, ‘श्वयथुहरविलयन’ इत्येकेपठन्ति; दहनं क्षारादिना; दारणं गृध्रपुरीषादिना; मादनं मत्तताकरणम्, एतच्च मदिरादीनां कर्म; प्राणघ्नत्वं विषादेः; विषप्रशमनत्वमगदादीनां; विषप्रशमनादीनीत्यत्रादिशब्देनव्रणरोपणरोमसञ्जननादयोगृह्यन्ते| स्वबलगुणोत्कर्षादिति स्वबलोत्कर्षात् स्वगुणोत्कर्षाच्चेत्यर्थः| आत्मकर्म कुर्वन्ति वातादिदोषशमनं कोपनं वा कुर्वन्ति| अभिभूयनिराकरणं कृत्वेत्यर्थः| स्नेहभावाच्चेत्यत्रापि वातं शमयतीति योज्यम्| मधुरश्चेक्षुरस इत्यादि न केवलं वातंशमयतीति वीर्यं रसमभिभूय प्रकोपयत्यपि वातमित्यर्थः| कटुका पिप्पलीत्यादि अत्रार्द्रा पिप्पली यदि गृह्यते तदा तस्याः स्वादुशीतत्वात् कटुकेति विशेषणं युक्तं न स्यात्, अथशुष्का तदा तस्याः कटूष्णत्वात् पित्तं हन्तीति विशेषणमयुक्तं भवेत्; सत्यं, ‘तेषु गुर्वी स्वादुशीता पिप्पल्यार्द्रा कफावहा’ इत्यत्र पाठे शीता चेति चकारो द्रष्टव्यः, तेन न केवलं शीताकटुका चेत्यर्थः, ततो नार्द्रपक्षे दोषः; शुष्कपक्षे तु ‘शुष्का कफानिलघ्नी सा वृष्या पित्ताविरोधिनी’ इत्यत्रपित्तेन सहेषद्विरोधिनीति व्याख्यानान्न दोषः; केषाञ्चिन्मते ‘पित्तप्रकोपणी’ इतिपाठः, तेषां मते पित्तशमनीयत्वं पिप्पल्या वीर्यवादिनां मतं, न पुनः सत्यमेषापित्तं शमयति; यदि वा आर्द्रा पित्तप्रशमनीशुष्का प्रकोपणीति| अम्लमामलकं लवणं सैन्धवं चैत्यत्रापि मृदुशीतवीर्यत्वात् पित्तं शमयतीति योज्यम्| तिक्ता काकमाचीत्यादि पित्तं वर्धयति केवलं न [८] तुप्रकोपयति, तस्यास्त्रिदोषघ्नीत्वात्| अन्ये चात्रैवं वदन्ति- वीर्यवादी एवमुष्णवीर्यां काकमाचीं मन्यते, आचार्यस्तु नात्युष्णशीताम्, अत एव त्रिदोषघ्नीत्वंकाकमाच्या इति| मधुरा मत्स्याश्चेत्यत्रापि पित्तं वर्धयन्तीति योज्यम्| मूलकं बृहन्मूलकं ; न पुनर्बालकं, त्रिदोषघ्नत्वात्||५||


भवन्ति चात्र-

ये रसावातशमनाभवन्तियदितेषुवै |

रौक्ष्यलाघवशैत्यानि नतेहन्युःसमीरणम् ||६||

ये रसाःपित्तशमनाभवन्तियदितेषुवै |

तैक्ष्ण्यौष्ण्यलघुताश्चैव नतेतत्कर्मकारिणः ||७||

ये रसाःश्लेष्मशमनाभवन्तियदितेषुवै |

स्नेहगौरवशैत्यानि नतेतत्कर्मकारिणः ||८||

तस्माद्वीर्यं प्रधानमिति ||९||



द्रव्याश्रितंवीर्यकर्माभिधाय रसाश्रितं वीर्यकर्माह- भवन्ति चात्रेत्यादि| ये रसा वातशमनामधुराम्ललवणाः, ये रसाः पित्तशमनामधुरतिक्तकषायाः, ये रसाः श्लेष्मशमनाःकटुतिक्तकषायाः||६-९||


नेत्याहुरन्ये [९] , विपाकःप्रधानमिति |

कस्मात्? सम्यङ्मिथ्याविपक्वत्वात्; इहसर्वद्रवाण्यभ्यवहृतानिसम्यङ्मिथ्याविपक्वानिगुणंदोषंवाजनयन्ति |

तत्राहुरन्ये- प्रति रसं पाक इति |

केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति |

तत्तु नसम्यक्, भूतगुणादामाच्चान्योऽम्लोविपाकोनास्ति; पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्; यद्येवंलवणोऽप्यन्यःपाकोभविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति |

मधुरो मधुरस्याम्लोऽम्लस्यैवंसर्वेषामितिकेचिदाहुः; दृष्टान्तंचोपदिशन्ति- यथातावत्क्षीरमुखागतंपच्यमानंमधुरमेवस्यात्तथाशालियवमुद्गादयः प्रकीर्णाः स्वभावमुत्तरकालेऽपिनपरित्यजन्तितद्वदिति |

केचिद्वदन्ति- अबलवन्तो बलवतां वशमायान्तीति |

एवमनवस्थितिः, तस्मादसिद्धान्तएषः |

आगमे हिद्विविधएवपाकोमधुरः कटुकश्च |

तयोर्मधुराख्यो गुरुः, कटुकाख्योलघुरिति |

तत्र पृथिव्यप्तेजोवाय्वाकाशानांद्वैविध्यंभवतिगुणसाधर्म्याद्गुरुतालघुताच; पृथिव्यापश्च गुर्व्यः, शेषाणिलघूनि; तस्माद्द्विविध एवपाकइति ||१०||



अपरंविपाकवादिमतं निर्दिशन्नाह- नेत्याहुरित्यादि| नेत्याहुरन्ये वीर्यं प्रधानमिति केचिन्न ब्रुवते| तर्हि किं प्रधानं? विपाकः प्रधानमिति, विशिष्टः पाको विपाकः| सर्वद्रव्याण्यभ्यवहृतानीतिइह सर्वशब्दो वामनीयद्रव्याणि वर्जयित्वा ज्ञेयः| गुणं दोषं वा जनयन्ति गुणंसम्यग्विपक्वानि, दोषं मिथ्याविपक्वानि| प्रतिरसं पाक इति रसं रसं प्रति पाक उत्पद्यत इत्यर्थः| तत्तु न सम्यक्, त्रैविध्यंन सम्यगित्यर्थः| कथं पुनस्त्रैविध्यं न सम्यगित्याह- भूतगुणादित्यादि| एतेन त्रैविध्यं निरस्तम्| प्रतिरसं पाक इति पूर्वोक्तं स्थापयन्नाह- मधुरो मधुरस्येत्यादि| अम्लो अम्लस्यैवं सर्वेषामिति केचिदाहुरिति पदच्छेदः| दृष्टान्तं चोपदिशन्तीति प्रतिरसपाके इत्यर्थः| उखागतं स्थालीगतम्| प्रकीर्णा इति भूमौ निक्षिप्ताः फलितपर्यन्ता इत्यर्थः| तद्वदिति एवं रसा अपि जठराग्निपक्वाः स्वं रूपं मधुरादिकं न त्यजन्ति| तस्मादित्यादि|- तस्मात् केचित् प्रतिरसं पाकः, केचित्त्रिविधः, अन्येऽबलवन्तो बलवतां वशमायान्तीति मतानामनियतत्वम्; तस्मादसिद्धान्त एष अनागम एषइत्यर्थः| स्वमतमिदानीं दर्शयन्नाह- आगमे इत्यादि| आगमे शास्त्रे| अन्ये ‘आगमस्त्विह’ इतिपठन्ति; तत्र तुशब्दोऽप्यर्थः, अथवा विशेषार्थस्तुशब्दः, तेन प्रत्यक्षादिप्रमाणाविरुद्धोऽपिशिष्टागम इत्यर्थः; अथवा, आगमशब्दोऽयं सिद्धान्तवचनः, तेन सिद्धान्तः पुनरिहेत्यर्थः| पृथिव्यप्तेज इत्यादि| पृथिव्यादीनां गुणसाधर्म्याद् गुणसमानतया द्वैविध्यं भवतीत्यर्थः| गुणमेवाह- गुरुता लघुता चेति||१०||


भवन्ति चात्र-

द्रव्येषु पच्यमानेषुयेष्वम्बुपृथिवीगुणाः |

निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ||११||

तेजोऽनिलाकाशगुणाःपच्यमानेषुयेषुतु |

निर्वर्तन्तेऽधिकास्तत्र पाकःकटुक उच्यते ||१२||



भवन्तिचात्रेत्यादि| निर्वर्तन्तेऽधिका इति जायन्ते उत्कटा इत्यर्थः||११-१२||


पृथक्त्वदर्शिनामेष [१०] वादिनांवादसङ्ग्रहः |

चतुर्णामपि सामग्र्यमिच्छन्त्यत्र [११] विपश्चितः ||१३||



एवंद्रव्यरसवीर्यविपाकवादिनांसविवादहेतूनि मतानि निर्दिश्य स्वमतं द्रव्यादिसामग्र्यलक्षणं निर्दिशन्नाह- पृथक्त्वदर्शिनामित्यादि| पृथक्त्वदर्शिनां भेददर्शिनाम्, एष वादसङ्ग्रह इतियोज्यम्| वादसङ्ग्रहश्च द्रव्यं प्रधानं, रसाः प्रधानमित्यादिकः| स्वमतमाह- चतुर्णामित्यादि| चतुर्णां रसगुणवीर्यविपाकानाम्| अपिशब्दः समुच्चये| न केवलमेकस्य द्वयोस्त्रयाणांवा, चतुर्णामपीत्यर्थः| सामग्र्यं समुदायत्वम्| इच्छन्ति मन्यन्ते| अत्र द्रव्ये| विपश्चितः पण्डिताः||१३||


तद्द्रव्यमात्मना [१२] किञ्चित्किञ्चिद्वीर्येणसेवितम् |

किञ्चिद्रसविपाकाभ्यां दोषं हन्ति करोति वा ||१४|| Ref.



ननु, तर्हि द्रव्यमेव क्रियाकारि न रसादय इत्याशङ्क्याह- तदित्यादि|| आत्मना स्वयमेव, द्रव्यमात्मना कृत्वा किञ्चिद्दोषं हन्ति करोति वा, किञ्चिद्द्रव्यमेव वीर्येण कृत्वा हन्ति करोति वा, किञ्चिद्धन्ति करोति वा रसविपाकाभ्यां कृत्वा, सर्वत्र द्रव्यं हनने करणे च कर्तृकारकं; तत्रद्रव्यमात्मना पार्थिवाप्यतैजसवायव्याकाशीयस्वरूपेण दोषं हन्ति, यथा- खदिरः कुष्ठं, दोषशब्दोऽत्र व्याधावपि वर्तते; वीर्येण द्विविधेनाष्टविधेन वा सेवितं द्रव्यंदोषं हन्ति, तच्च महत्पञ्चमूलादिकमेतस्मिन्नध्यायेकथितमेव; रसेन कृत्वा द्रव्यं दोषं हन्ति, यथा- तिक्ता गुडूच्युष्णवीर्याऽपि पित्तं शमयति; विपाकेनकृत्वा द्रव्यं दोषं हन्ति, यथा- शुण्ठी कटुकाऽपि वातं शमयति, मधुरविपाकत्वात्||१४||


पाको [१३] नास्तिविनावीर्याद्वीर्यंनास्तिविनारसात् |

रसो नास्तिविनाद्रव्याद्द्रव्यंश्रेष्ठतमं [१४] स्मृतम् ||१५||Ref.



रसादीनांद्रव्यकार्यत्वाद्द्रव्यस्यप्राधान्यं दर्शयन्नाह- पाक इत्यादि| श्रेष्ठतमं प्रशस्यतमम्| एतेनाश्रयो द्रव्यम्, आश्रयिणो रसादयः||१५||

No ref. of Samavayi as in ch.Su.1

जन्म [१५] तु द्रव्यरसयोरन्योन्यापेक्षिकं स्मृतम् |

अन्योन्यापेक्षिकं जन्मयथास्याद्देहदेहिनोः ||१६||

वीर्यसञ्ज्ञा [१६] गुणायेऽष्टौतेऽपिद्रव्याश्रयाःस्मृताः |

रसेषु नभवन्त्येतेनिर्गुणास्तुगुणाःस्मृताः ||१७||

द्रव्ये [१७] द्रव्याणियस्माद्धिविपच्यन्तेनषड्रसाः |

श्रेष्ठं द्रव्यमतो ज्ञेयं, शेषा भावास्तदाश्रयाः ||१८||



कार्यकारणभावेऽपियथाऽग्नेर्धूमो जायते नैवं रसादयो द्रव्याज्जायन्ते किं तर्हि द्रव्यरसादीनां च सहैव जन्मेतिदर्शयन्नाह- जन्म त्वित्यादि| अन्योन्यापेक्षिकमिति अन्योन्याश्रितमेकवेलोत्पत्तिरित्यर्थः| किमिवेत्याह- अन्योन्येत्यादि| देहः शरीरं, देही आत्मा| एवं रसं द्रव्याश्रयं प्रतिपाद्य वीर्यमपि द्रव्याश्रयं प्रतिपादयन्नाह- वीर्यसञ्ज्ञा इत्यादि| अपिशब्दादन्येऽपि स्थूलसूक्ष्मादयो गुणा द्रव्याश्रया एव| निर्गुणास्तु गुणाः स्मृता इति| एते शीतादयः स्थूलसूक्ष्मादयश्चान्ये गुणाः, रसोऽपि गुणः, अतो गुणेषु गुणा न सम्भवन्ति तस्माद्द्रव्यस्यैवैतेशीतादयो गुणा इति| तथा विपाकमपि द्रव्याश्रयमेव प्रतिपादयन्नाह- द्रव्ये इत्यादि| द्रव्ये पञ्चभूतात्मकदेहे, द्रव्याणि आहारद्रव्याणि; न षड्रसाः, निरवयवत्वात्| शेषा भावा इति रसादय इत्यर्थः, तदाश्रया इति द्रव्याश्रया इत्यर्थः| अत्र पाठान्तराणि तद्व्याख्यानान्तराणि च बहूनि सन्ति, तानि विस्तरभयान्न लिखितानि||१६-१८||


अमीमांस्यान्यचिन्त्यानि [१८] प्रसिद्धानिस्वभावतः |

आगमेनोपयोज्यानि भेषजानि विचक्षणैः ||१९||



यथोक्तभेषजानांस्वबुद्ध्या विचारनिषेधं निदर्शयन्नाह- अमीमांस्यानीत्यादि| अमीमांस्यानि न विचार्याणि, अचिन्त्यानि यान्येवाचिन्त्यानितान्येवामीमांस्यानि| कानि पुनस्तानि? खदिरतुवरकरसाञ्जनहरिद्रादीनिकुष्ठघ्नानि, न तु सर्वाणिद्रव्याणि; अन्यथा ‘वर्गमपि वर्गेणोपसृजेत्’, तथा ‘बीजेनानेन मतिमान् कुर्याद्बस्तिशतान्यपि’(चि. अ. ३८) इत्यादि विरुद्धं भवेत्| स्वभावतो जन्मतः| अन्ये तु आगमे यानिभेषजानि प्रसिद्धानि तान्यमीमांसान्यविचारणीयानि, कुतो हेतोरविचार्याणि? यतः स्वभावतोऽचिन्त्यानि तेषां स्वभावश्चिन्तयितुं न शक्यत इत्यर्थः; यथा द्रवत्वमपामुष्णत्वमग्नेरित्यादि| कथं पुनस्तानि प्रयोज्यानीत्याह- आगमेनोपयोज्यानि; आगमेनैवैकेनोपयोगः कार्य इत्यर्थः||१९||


प्रत्यक्षलक्षणफलाः [१९] प्रसिद्धाश्चस्वभावतः |

नौषधीर्हेतुभिर्विद्वान् परीक्षेत कदाचन ||२०||

सहस्रेणापि हेतूनांनाम्बष्ठादिर्विरचयेत् |

तस्मात्तिष्ठेत्तु मतिमानागमे न तु हेतुषु ||२१||



ननु, अनुमानविरुद्धानि कथमागमैकप्रयोज्यानीत्याशङ्क्य, आगमस्य प्रत्यक्षफलत्वेन बलीयस्त्वं दर्शयन्नाह- प्रत्यक्षेत्यादि| प्रत्यक्षलक्षणफला हिताहितभेदेन| कुतः पुनर्हेतुभिर्न परीक्षणीयं भेषजं प्रसिद्धलक्षणफलमित्याह- सहस्रेणेत्यादि||२०-२१||


इति सुश्रुतसंहितायांसूत्रस्थानेद्रव्यगुणरसवीर्यविपाकविज्ञानीयोनामचत्वारिंशत्तमोऽध्यायः ||४०||



इतिश्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने चत्वारिंशोऽध्यायः||४०||


१. ‘द्रव्यादीनां प्रत्येकं प्राधान्यमेकीयमतेन दर्शयितुं द्रव्यस्य प्राधान्ये प्रथमं सहेतुकमेकीयमतमाह- केचिदित्यादि| एतच्चैकीयमतोपदर्शनं सम्यग्द्रव्यादिस्वभावज्ञानार्थम्, अभिनिविष्टो हि वादी स्वपक्षसाधनार्थंस्वरूपं प्राधान्यख्यापकं दर्शयति, तेन चान्ते वक्ष्यमाणाचार्यसिद्धान्तसहितेनसम्यगर्थप्रतीतिर्भवति| व्यवस्थितत्वादिति अवस्थाभेदेन रसादिभेदेऽपि द्रव्यस्य व्यवस्थितत्वात्| यथा- आम्रफलं प्रथमं कषायाम्लं, मध्येऽम्लं, ततो मधुरम्, एवं रसाव्यवस्थानेऽपि द्रव्यमात्ररूपतया व्यवस्थितत्वम्| नित्यत्वाच्चेति नित्यत्वं रसादिनाशेऽप्यवस्थितत्वमिह ज्ञेयं, व्यवस्थितत्वं तु रसान्यथात्वे तद्रूपतयाव्यवस्थितत्वमिति भेदः| कालादीत्यत्रादिशब्देन जलवातादयो गृह्यन्ते| स्वजात्यवस्थानादिति परिणामेऽपि द्रव्यं स्वजाताववतिष्ठते न जात्यन्तरं भवति, पार्थिवं तु पार्थिवमेव यदाप्यंतदाप्यमेवेत्यादिस्वजात्यपरित्यागः| रसस्तु क्षीरमधुरत्वं परित्यज्याम्लतां यातीत्यनुसरणीयं, जातिश्चेह पार्थिवत्वादिरूपा व्यवस्थिताऽभिप्रेता, तेन क्षीरस्य दधित्वं गुडस्य शर्करात्वमित्यादिजातिभेदो नोद्भवनीयः| पञ्चेन्द्रियग्रहणादित्यत्रपञ्चभिरिन्द्रियैर्द्रव्यंगृह्यते इति चक्षुषा स्पर्शनेन तावद्द्रव्यग्रहणमविवादसिद्धमेव| घ्राणरसनाश्रोत्राणामपिसुरभि चन्दनं, मधुरः कोषकारः, तथा सुस्वरा वीणेत्यादि सामानाधिकरण्यज्ञानेन द्रव्यग्रहणं प्रति स्फुटतरव्यापाराद् द्रव्यग्राहकत्वं ज्ञेयम्| आश्रयत्वाच्चेति रसादीनां द्रव्यमाश्रयः, तेनाश्रिता रसादयः परतन्त्रत्वादप्रधानाः, आश्रयस्तु प्रधानमित्यर्थः| कस्माद्रसादीनामेकदेशेन व्याधयो न साध्यन्त इत्याह- निरवयवत्वादिति| क्रियावद्गुणवत् समवायिकारणं द्रव्यमिति क्रिया कर्म, गुणा रसादयः, समवायिकारणं स्वसमवेतकार्यजनकम्| एते क्रियादयो रसादौ व्यावृता इतीहोक्ताः| सर्वद्रव्यव्यापकविजातीयव्यावृत्तंतु लक्षणमिह- क्रियागुणवत्त्वमेव| एतदेव हि क्रियागुणयोर्यथाक्रमं द्रव्यं व्याप्यक्रिया द्रव्ये विद्यते, गुणाः समवयन्तीति| विद्यते इति सत्तामात्रं व्याप्तिः, समवयन्तीति व्याप्य द्रव्यमवतिष्ठन्ते, नहि निर्गुणं द्रव्यं किञ्चिदस्तीति’ इतिचक्रः|

२. ‘तथाहि’ इतिपा.|

३. ‘व्यापन्नरसगन्ध’ इतिपाठो हस्तलिखितपुस्तके नोपलभ्यते, डल्हणेनापि न व्याख्यातः| ‘यथा- कालादिप्रविभागात्तदेवसम्पन्नरसगन्धं व्यापन्नरसगन्धं वा भवति’ इति चक्रसम्मतः पाठः|

४. ‘गुणा अनित्याः’ इति पा.|

५. ‘द्रव्यादपि रसप्राधान्यं दर्शयितुं द्रव्यप्राधान्यं निषेधयति- नेत्याहुरन्ये इति| एते द्रव्यप्राधान्यख्यापका हेतवो वक्तव्यरसप्राधान्यहेत्वपेक्षयाअप्रयोजका इत्यभिमानो रसवादिनो ज्ञेयः| एवं वीर्यवादिनस्तथा विपाकवादिनश्च ‘नेत्याहुरन्ये’ इतिवचनमनया दिशा व्याख्येयम्| रसप्राधान्ये आगमादिति हेतुः आगम एव कण्ठरवेण रसस्यप्राधान्यं कथयतीत्याहुः| उपदेशादिति तु रसेन द्रव्यादिसमुदायकार्योपदेशादित्यर्थभेदोनेयः| ऋषिवचनमिह वेदः| ऋषय आप्ताः| तद्वचनता च वेदस्य ऋषिभिःप्रथममुदाहरणात्, न तु ऋषिकार्यतया| किंवा न्यायमते महेश्वररूपर्षिवचनता वेदस्य ज्ञेया| द्रव्यादिप्राधान्यविचारे कस्माद्गुण नोद्भाविता इत्याह- रसेषु तु गुणसञ्ज्ञेति| रसेष्वित्युपलक्षणं, तेन वीर्यविपाकयोरपि गुणसञ्ज्ञेति बोद्धव्यं, तेन रसादिप्राधान्यव्युत्पादनेनगुणविशेषप्राधान्यं लभ्यत इत्यर्थः|’ इति चक्रः|

६. ‘वीर्यप्राधान्यवादिमतमाह- नेत्याहुरन्ये इत्यादि| प्राधान्यादिति प्रधानधर्मयोगात्, प्रधानधर्मश्च वीर्यवशेनौषधानां कार्यनिष्पादकत्वम्| अत्र वीर्यशब्देन द्रव्यस्य द्विविधाऽपि चिन्त्या अचिन्त्या च शक्तिरुच्यते| तत्राचिन्त्याशक्तिर्या तन्त्रान्तरे प्रभाव इत्युच्यते सा ग्राह्या, तस्यैवच वीर्यस्य प्रभावाख्यस्य स्वतन्त्रे ‘तद्द्रव्यमात्मना किञ्चित्’ इत्यनेन ग्रहणं ज्ञेयम्| रसस्य विपाकस्य च शास्त्रे पृथङ्निर्देशान्नवीर्यव्यवहारः, परिणामसङ्ख्यादयो गुणा न शास्त्रे तथाकार्यकरा इति पृथक्त्वेन द्रव्यरसादिगणनायां गण्यन्ते| चिन्त्यायां वैद्यसम्प्रदायेन शीतोष्णलक्षणं द्विविधमष्टविधं वा उष्णशीतस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णरूपमुच्यते| यदा द्विविधं वीर्यं तदा स्निग्धरूक्षादीनां षण्णामपि परिणामसङ्ख्यादिवदप्राधान्यंविवक्षितं ज्ञेयम्| स्निग्धादीनामप्राधान्यविवक्षायांरसादिधर्मतयैव कार्यग्रहणं| वक्ष्यति हि- ‘मधुरो रसः स्निग्धः’ इत्यादि| अष्टविधवीर्यपक्षे तूष्णादीनां सर्वेषामेव बलवत्कार्यकर्तृविवक्षया वीर्यत्वमिति स्थितिः| सम्प्रति शास्त्रे व्यवहारसिद्धमेव वीर्यं विवेचयन्नाह- तत्तु वीर्यमित्यादि| कथमेतान्युष्णादीनि वीर्याख्यानीत्याह- एतानि खल्वित्यादि| स्वबलगुणोत्कर्षादिति बलं शक्तिः, स एव गुणःप्रशस्तत्वात्| स्वशक्तिरूपगुणोत्कर्षादुष्णादीनिरसमभिभूय स्वकार्यं कुर्वन्ति|’ इति चक्रः| ‘वीर्यं शक्तिः, सा च पृथिव्यादीनांभूतानां यः सारभागस्तदतिशयरूपा बोध्या| साच द्विविधा, चिन्त्याचिन्त्यक्रियाहेतुत्वेन| तत्र चिन्त्यक्रियाहेतुर्या द्रव्यरसादीनां स्वस्वकर्मणि स्वभावसिद्धा शक्तिः, अचिन्त्यक्रियाहेतुश्च प्रभावापरपर्याया द्रव्याणां रसाद्यननुरूपकार्यकारणशक्तिः| उक्तं च- “भूतप्रसादातिशयो द्रव्ये पाके रसे स्थितः| चिन्त्याचिन्त्यक्रियाहेतुर्वीर्यंधन्वन्तरेर्मतम्”- इति| एतेन द्रव्यरसपाकानां स्वस्वकार्यकरणसामर्थ्यं वीर्यमित्यर्थः| यत्पुनश्चरके- “वीर्यं तु क्रियते येनया क्रिया”- (च. सू. अ. २६) इत्यनेनरसादीनामपि वीर्यत्वमुक्तं, तद्धर्मधर्मिणोरभेदादेव समर्थनीयम्| न चैवं द्रव्यस्यापिवीर्यत्वप्रसङ्गः| येनेति करणे तृतीया, करणस्यैव शक्तित्वात्, द्रव्यस्य च कर्तृत्वात्| एतेनद्रव्यकर्तृके रसादिकरणके कार्ये रसादीनामपि वीर्यत्वमित्यर्थः| सुश्रुतेऽप्युक्तं- “येन कुर्वन्ति तद्वीर्यम्”- (सु. सू. अ. ४१) इति| अत्र केचित्- ननु, यदि शक्तिरेव वीर्य न तर्हि शीतोष्णादिलक्षणम्, अथ शीतोष्णादिलक्षणं न तदा शक्तिलक्षणमिति| सत्यं, परमार्थतः शक्तिरेव वीर्यं, सा पुनर्बलवत्क्रियानिर्वर्तनक्षमा रसादिनाऽयोगान्निरुपाधिरितितस्याः शीतोष्णादयो गुणा उपाधित्वेनाङ्गीकृताः, ते तु द्रव्यसमवायिनोरसादिषु पुनरुपचरितवृत्तय इति| उक्तं च- “गुणाः कर्मव्यवस्थायै द्रव्याणां रसपाकयोः| शक्तेः कर्मसु शक्ता ये निरुपाधेरुपाधयः”- इत्याहुः| यत्पुनः “मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम्| वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः|| शीतोष्णमिति” (च. सू. अ. २६)- इतिमतभेदेनाष्टविधं द्विविधं वा वीर्यमित्युक्तं चरकेण, तत्पारिभाषिकवीर्यपुरस्कारेण| वैद्यके हि रसविपाकप्रभावातिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति सञ्ज्ञा| तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यंप्रायः कुर्वन्तीति तेषां रसाद्युपदेशेनैव ग्रहणं| मृद्वादीनामष्टानां तु रसाद्यभिभावकत्वमस्ति| सुश्रुतेऽप्युक्तम्- “एतानि खलुवीर्याणि स्वबलगुणोत्कर्षाद्रसमभिभूयात्मकर्मकुर्वन्ति”- (सु. सू. अ. ४०) इति| शीतोष्णवीर्यवादिमतं त्वग्नीषोमीयत्वाज्जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम्| उक्तं च- “नानात्मकमपि द्रव्यग्नीषोमौ महाबलौ| व्यक्ताव्यक्तं जगदिव नातिक्रमति जातुचित्”- (वा. सू. अ. ९) इति| प्रथमवादिमते शक्तिमात्रं वीर्यं, तद्योगाद्रसादीनामपि वीर्यसञ्ज्ञा| पारिभाषिकवीर्यवादिमते तु शक्तिविशेषो वीर्यं, तद्योगान्मृदुतीक्ष्णादीनामेववीर्यसञ्ज्ञा नापरेषां गुणानामिति| शास्त्रे व्यवहारस्तु पारिभाषिकवीर्यनयेनैवेति| भवन्ति चात्र- “शक्तिमात्रं तु वीर्यं स्यादितिकेचिद्बुधा विदुः| तन्मते द्रव्यरसयोः पाकस्य च गुणस्य च|| मृद्वादेः स्वक्रियोत्पादे शक्तिवीर्यमिति स्थितिः| तदुक्तं चरके- ‘वीर्यं क्रियते येन या क्रिया|| नावीर्यंकुरुते किञ्चित् सर्वा वीर्यकृता क्रिया’| इत्यनेन रसादीनां वीर्यत्वं तदभेदतः|| मृद्वादयो गुणा ह्यष्टौ वीर्याणीत्यूचिरे परे| यस्मात् सर्वगुणोत्कृष्टाः शक्त्युत्कर्षयुता अमी|| व्यवहारोपयुक्ताश्च नेदृशास्त्वपरे गुणाः| तस्मान्न ते वीर्यसञ्ज्ञा इतिशास्त्रविदां मतम्|| अन्ये शीतोष्णभेदेन वीर्यं द्विविधमूचिरे| अग्नीषोममयं विश्वं यत एतच्चराचरम्”- इति| प्रभावोऽचिन्त्यक्रियाहेतुवीर्यमेवेतिशक्तिविशेष एव प्रभाव इत्यभिधीयते| प्रभावसत्त्वे च चरके मानमप्युक्तम्| यथा- “रसवीर्यविपाकनां सामान्यं यत्र लक्ष्यते| विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः” (च. सू. अ. २६) इति| सामान्यमिति तुल्यता, कर्मणां पुनर्विशेषो न तुल्यतेत्यर्थः| एतेन द्रव्ययोर्द्वयोरसादिसाम्ये सत्यप्येकस्मिन् द्रव्ये जायते कार्यविशेषः, इतरत्र तु न जायते, इत्यत्र यत्कारणतया वाच्यं तदेव प्रभाव इत्यर्थः| तथा रसादिसाम्यभावेऽपि रसादिजन्यत्वेन यत्कार्यं नावधारयितुं पार्यते तदपि प्रभावकृतमेव मन्तव्यं| यथा- मण्यादीनां विषहरणादिकं कर्म” इति द्रव्यगुणसङ्ग्रहव्याख्यायांशिवदाससेनः| “वीर्यं पुनर्वदन्त्येके गुरु स्निग्धं हिमं मृदु| लघुरूक्षोष्णतीक्ष्णं च तदेवं मतमष्टधा|| चरकस्त्वाह वीर्यं तत् क्रियते येन या क्रिया| नावीर्यंकुरुते किञ्चित् सर्वा वीर्यकृता हि सा|| गुर्वादिष्वेववीर्याख्या तेनान्वर्थेति वर्ण्यते| समग्रगुणसारेषु शक्त्युत्कर्षविवर्तिषु|| व्यवहाराय मुख्यत्वाद्बह्वग्रग्रहणादपि| अतश्च विपरीतत्वात् सम्भवत्यपि नैव सा|| विवक्ष्यते रसाद्येषु वीर्यं गुर्वादयो ह्यतः|” इति वाग्भटः (वा. सू. अ. ९)||

७. ‘गुरु लघु’ इति हाराणचन्द्रसम्मतः पाठः| “नेह गुरुलघुशब्दावर्तनेन विशदपिच्छिलयोः पाठो न्याय्यः, शास्त्रेऽस्मिन् क्वचिदपि तयोर्वीर्यत्वेनानुपदेशादुपदेशाच्चगुरुलघुनोः| वक्ष्यति च ‘ये रसा’ इत्युपक्रम्य ‘रौक्ष्यलाघवशैत्यानिन ते हन्युः समीरणम्’ इत्यादि’ इतिहाराणचन्द्रः|

८. ‘न तु समुदितं’ इति पा.|

९. ‘इदानीं विपाकगुणा वाच्याः, अतो विपाकस्वरूपं निरूप्यते- अवस्थापाकापेक्षया विशिष्टः पाको विपाकः| विपाकशब्देनेह लक्षणया विपाकाधेय आहारस्य रसविशेषो गौरवेण लाघवेन वा युक्तोऽभिधीयते| उक्तं चवाग्भटेन- “जाठरेणाग्निना योगाद्यदुदेति रसान्तरम्| रसानां परिणामान्ते स विपाक इतिस्मृतः”- (वा. सू. अ. ९) इति| अत्र रसानां परिणामा मधुराम्लकटुरूपास्त्रयोऽवस्थापाकाःषड्रसस्यैवान्नस्यामाशयादिस्थानसम्बन्धमहिम्नाजायन्ते, ते च चरकेग्रहणीचिकित्सिते “अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः” (च. चि. अ. १५) इत्यादिनोक्ताअनुसन्धेयाः, तेषामन्तेऽवसाने पुनर्जाठराग्निसंयोगे सति यद्रसान्तरं रसविशेष उदेति स विपाक इत्यर्थः| चरकेण तु त्रय एवविपाका अङ्गीकृताः कट्वम्लमधुरभेदेन| अतस्तद्वचनमुपन्यस्यते- “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा”- इति (च. सू. अ. २६)| प्रायश इति वचनात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकतां दर्शयति| पाकस्तु तेजःसंयोगरूपो रसेषु न सम्भवतीति कट्वादिशब्दैस्तदाधारद्रव्याण्युच्यन्ते| एतेन यत् कैश्चिदुच्यते- “अवस्थापाकावसाने षड्रसस्यैवान्नस्य कटुरसत्वेन तदानीं तिक्तादिरसानामभावात्तेषां विपाको नोपपद्यते” इति| तदप्यपास्तं, तिक्तादिरसानामभावेऽपि तदाश्रयद्रव्यस्य विद्यमानत्वादिति| वस्तुतस्तु, अवस्थापाकत्रयेण तत्तदामाशयादिस्थानमहिम्ना मधुराम्लकटुरसा उद्भूताः परं क्रियन्ते, न तु सर्वथाप्राकृतरसाभिभवः| अन्यथाऽवस्थापाकेन प्राकृतानां मधुरादिरसानां सर्वथाऽप्राकृतत्वे तेषां कफादिजनकत्वाभिधानं निरवकाशं स्यादिति| ननु, चरके- “अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः” (च. चि. अ. १५)- इत्यादिनाषण्णामेव रसानामविशेषेणावस्थापाकवशात्कफादिजनकत्वमुक्तं, ततश्चात्र रसविशेषाणामेव दोषविशेषजनकत्वमुक्तं, तथा “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः”- (च. सू. अ. २६) इत्यादिनाच यो विपाक उक्तस्तत्सर्वं विरुध्यते, अवस्थापाकेनैव बाधितत्वादिति| नैवं, नह्यवस्थापाकोऽयं रसस्वभावं निष्ठापाकं बाधते, किञ्चावस्थायां स्वकार्यं करोति| तेन रसादयोऽपि स्वकार्यं कुर्वन्ति, अवस्थापाकोऽपि स्वीयं कार्यं करोति, यथा- मधुरतिक्ताद्यनेकरसे उपयुक्ते मधुरोऽपि स्वकार्यं करोति, तिक्तादयश्च स्वकार्यं कुर्वन्ति| अयं तु विशेषो- यदिमधुराख्यस्यावस्थापाकस्यमधुरादयः श्लेष्मजनका रसा अनुगुणा भवन्ति, तदा स बहुश्लेष्माणं जनयति, यदा तु विपरीतकटुकादिपरिगृहीतो भवति, तदा स्तोकमात्रं कफं जनयति| एवं पित्तजनकावस्थापाकेऽपि वाच्यम्| “कटुतिक्तकषायाणां” (च. सू. अ. २६) इत्यादिनोक्तश्चनिष्ठापाको रसमलविवेकसमकालो, भिन्नकाल एवावस्थापाकैः सममिति न विरोधः| सच भिन्नकालोऽप्यवस्थापाकजन्यदोषानुगुणतयाअननुगुणतया वाऽवस्थापाकाहितदोषाणां वर्धनं क्षपणं वा करोतीति निष्ठापाकाभिधानंशास्त्रे प्रयोजनवदेव| अन्ये त्वाहुः- यत्- नान्नस्याग्निसंयोगान्मधुराद्यवस्थितंभवति, किन्तु कफादिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति, ते चान्नं स्वस्वभावंनीत्वा कफादीन् जनयन्ति| उक्तं हि तन्त्रान्तरे- “मधुरोहृदयादूर्ध्वं रसः कोष्ठे व्यवस्थितः| ततः संवर्धते श्लेष्मा शरीरबलवर्धनः|| नाभिहृदयमध्ये हि रसस्त्वम्लो व्यवस्थितः| स्वभावेन मनुष्याणां तत्र पित्तं विवर्धते|| अधो नाभ्यास्तु खल्वेकः कटुकोऽवस्थितो रसः| प्रायः श्रेष्ठतमस्तत्र प्राणिनां वर्धतेऽनिलः|| तस्माद्विपाकस्त्रिविधो रसानां नात्र संशयः” इति| एतच्च तन्त्रान्तरं श्लेष्मपित्तगतमधुराम्लरसवायुप्राभाविककटुरसाभिप्रायेणवर्णनीयम्| ते च कफादिगतारसा अस्माकमप्यग्न्याशयपाकसहकारितयाऽनुमताएव, तस्माद्यथोक्त एवार्थो न्याय्य इति| अयं च विपाकाधेयो (रसो) न रसनेन्द्रियग्राह्यः, किन्तु तत्तत्कार्येणैवोन्नीयते| यथा- कटुरसाया उष्णवीर्याया अपि शुण्ठ्या वृष्यत्वेन मधुरः पाकोऽनुमीयते, तथा लवणस्य सृष्टविण्मूत्रत्वेन मधुरः पाक उन्नीयते, तथा तिक्तकषाययोर्बद्धविण्मूत्रतयाकटुपाक उन्नीयत इति| ननु, लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं, तथा तिक्तकषाययोः कटुपाकित्वे च पित्तहन्तृत्वमनुपपन्नम्| नैवं, सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणे उष्णवीर्यं यदस्ति तेन तस्य पित्तरक्तादिकारकत्वं, विपाकस्तु तत्र पित्तरक्तकरणलक्षणे कार्ये बाधितोऽपि सृष्टविण्मूत्रादिलक्षणे लक्ष्यत एव, तथा तिक्तकषाययोरपि कटुविपाको बलवता शीतवीर्येण बाधितत्वान्न पित्तजनकः, बद्धविण्मूत्रतया तु लक्ष्यत एव| एतेन यदुच्यते- लवणादिषु विपाको यदि रसवीर्याभ्यां बाधितः स्वकार्यकरो न स्यात्, तत्किं तेनोपदिष्टेनेति, तन्निरस्तं भवति| यतोऽस्त्येव सृष्टविण्मूत्रतादि तत्कार्यमिति| न च त्रयएव विपाकाः कथं भवन्ति, तिक्तादयोऽपि कुतो न स्युरिति वाच्यं| भूतस्वभावस्यापर्यनुयोज्यत्वात्| ननु, यत्र रसविपरीतः पाको यथा- लवणस्य मधुरः, तिक्तकषाययोश्च कटुः, स उच्यतां| यस्तुसमानगुणो मधुरस्य मधुरः, अम्लस्याम्लः, कटुकस्य कटुकः, तत्कथनेन किं प्रयोजनं| यतो रसगुणैरेव तत्र विपाकगुणोऽपि ज्ञास्यते| नैवं, लवणादिवद्विसदृशरसान्तरोत्पादशङ्कानिरासार्थमपितत्रानुगुणोऽपि विपाको वक्तव्य एव| तथा यत्र समानगुणो विपाकस्तत्र बलवत्कार्यं भवति, विपर्यये तु दुर्बलमिति ज्ञेयम्| सुश्रुतेन द्विविध एव विपाकोऽङ्गीकृतो मधुरः कटुकश्चेति, द्वैविध्ये च भूतानां गुरुलाघवेनद्वैविध्यमेव हेतुः| यदुक्तं तेनैव- “तत्र, पृथिव्यप्तेजोवाय्वाकाशानांद्वैविध्यं भवति गुणसाधर्म्याद् गुरुता लघुता च| तत्र पृथिव्यापश्चगुर्व्यः, शेषाणि लघूनि| तस्माद्द्विविध एव विपाको भवति”- इति (सु. सू. अ. ४०)| अत्रापिसुश्रुतमते यद्यप्यम्ललवणौ मधुरविपाकौ तथाऽपि तयोर्वातहरत्वे सृष्टविण्मूत्रतायां च मधुरकार्यकरत्वं न पुनःपित्तहरत्वे, तथा तिक्तकषाययोः कटुविपाकयोरपि वातकर्तृत्वे बद्धविण्मूत्रतायां च कटुकार्यकरत्वं नपुनः पित्तकर्तृत्वे, अचिन्त्यत्वात् प्रभावस्य| ननु, “पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः| विपक्वः पञ्चधा सम्यक् स्वान् गुणानभिवर्धयेत्” (सु. सू. अ. ४६)- इत्यनेनपञ्चधाऽपि विपाकस्तेनैवोक्तः, तत्कथं न विरोध इतिचेत्| नैवम्, उपाधिभेदेन विरोधाभावात्| तत्र हि भूतभेदमवलम्ब्य पञ्चधात्वं, अत्र तु लाघवगौरवरूपं भूतगुणद्वैविध्यमाश्रित्यद्वैविध्यमुक्तमिति न विरोधः| यथा- पञ्चभूतात्मकत्वेऽपि द्रव्याणां सौम्याग्नेयत्वाद्द्वैविध्यमिति| यत्पुनः सुश्रुतेनाम्लपाको न मन्यते तच्चरकमतानुयायिनोन सहन्ते, यतोऽम्लपाकतयैव व्रीहिकुलत्थादीनां पित्तकर्तृत्वमुपपद्यते, अथ मन्यसे- व्रीह्यादेरुष्णवीर्यत्वेनतत्र पित्तकर्तृत्वं? तदसत्, मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपिसत्यां न पित्तकर्तृत्वमुपपद्यते, रसविपाकाभ्यामेकस्य वीर्यस्य बाधनीयत्वात्| किञ्चाम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते, यदि तूष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात्, दृश्यते च- व्रीहिभक्षणादम्लोद्गारादिनाऽम्लगुणभूयिष्ठतैवेति| किञ्च पृथिवीसोमगुणातिरेकान्मधुरःपाको भवति, वाय्वग्न्याकाशातिरेकाच्च कटुर्भवति- इति पक्षे यदा व्यामिश्रगुणातिरेको भवति, तदा सोमाग्न्यात्मकस्याम्लस्योत्पादःकथं प्रतिक्षेपणीयः| अथवा तन्त्रकारयोः किमनयोरनेन वचनमात्रविरोधेन कर्तव्यं| यतो यदम्लपाकं चरको ब्रूते तत् सुश्रुतेन वीर्योष्णमिति कृत्वा समाधीयते, अनेन न कश्चिद्द्रव्यगुणे विरोधः|’ इतिद्रव्यगुणसङ्ग्रहव्याख्यायांशिवदाससेनः| ‘विपाक इति पाकः पचनं द्रव्याणां स्वरूपरसयोः परा वृत्तिः| सा च स्वरूपान्तरत्वेनरसान्तरत्वेन च परिणतिः, तस्याविशेषो विपाकः|....कस्य रसस्य किं रसान्तरत्वेनोदयः परिणामः स्यादित्यत आह- ‘कटुतिक्तकषायाणां विपाकः प्रायशः कटुः’ इत्यादि| भुक्तानां द्रव्याणां यः कटुस्तिक्तः कषायोवा रसः स स रसःखलु जाठरेणाग्निना पच्यमानानां भुक्तानां द्रव्याणां रसाख्यधातुरूपेण परिणामे तत्पाकेन पच्यमानः सन् प्रायशः कटुर्विपाकः स्यात्| कटुश्च कटुविशेषेणाभिनिष्पन्नः संस्तत्र रसाख्ये धातौ वर्तते (एवं शेषेष्वपि व्याख्येयम्)...इत्थं च रसपाकाभिप्रायेण त्रिधा विपाकउक्तः (चरकेण)| सुश्रुते भूतगुणपाकाभिप्रायेण द्विधा विपाक उक्तो गुरुर्लघुश्चेति क्रमेण मधुरसञ्ज्ञः कटुसञ्ज्ञश्च’ इतिचरकटीकायां जल्पकल्पतरौ गङ्गाधरकविराजः| “विपाकप्राधान्यवादिमतं वीर्यवादिमतं निषेधयित्वा प्राह- नेत्याहुरन्ये इत्यादि| विपाकः प्रधानमिति प्रतिज्ञा| विपाकशब्देनेह लक्षणया अभ्यवहृतद्रव्यान्तपाकाधेय आहारस्य रसविशेषो गौरवेण लाघवेन वा युक्तोऽभिधीयते, विशिष्टो नैष्ठिकःपाको विपाक इत्यर्थः| अत्र हेतुः- सम्यङ्मिथ्याविपाकत्वादिति| अस्यार्थं व्याकरोति- सर्वद्रव्याणीत्यादि| सम्यग्विपक्वानि गुणं मिथ्याविपक्वानि दोषं जनयन्ति| सम्यक्पाकः समेनाग्निना, मिथ्यापाकस्तु हीनातिपाकरूपो यथाक्रमं मन्देन तीक्ष्णेन चाग्निना क्रियते| तत्र हीनापाके आमविकाराः, तीक्ष्णपाके च भस्मकविकारा दोषाः| समपाके तु धातुसाम्यं गुणश्च| अयं च पाको यद्यपिजठराग्न्यधीनः सर्वाहारसाधारणो नतु द्रव्याधीनो द्रव्यगुणरूपो य इहाधिकृतः ‘पिप्पल्यामधुरविपाकः, अर्घ्यं मधु कटुकम्’ इत्यादिना प्रतिपादनीयः| अयमेव पाक एतत्प्रकरणसिद्धान्ते च ‘तद्द्रव्यमात्मना किञ्चित्’ इत्यादौ दर्शितः| तथा ह्युभयोरपि पाकयोरग्न्याधेयान्यपाकरूपतयाएकतः प्राधान्ये साधितेऽपरत्रापि सिद्धं भवतीति ग्रन्थार्थो नेयः| किंवा सम्यक्पाको द्रव्यगुणानुगुणः पाको, यथा ‘चित्रकः कटुकः पाके’, तथा ‘क्षीरं मधुरं रसपाकयोः’ इत्यादि| अत्र हि द्रव्यगुणसदृश एकपाकः| मिथ्यापाकः द्रव्यगुणविसदृशः पाकः, यथा ‘पिप्पल्यः कटुकाः सत्यो मधुरविपाकाः’ इत्यादौ| गुणं दोषं वा जनयन्तीति सम्यक्पाकेतथा मिथ्यापाके च प्रत्येकं योजनीयम्| तेन द्रव्यगुणानुगुणो हि मधुरः पाकःसृष्टविण्मूत्रादिगुणंकफजननं दोषं च करोति, तथाद्रव्यगुणविसदृशश्च पिप्पल्याः कटुकाया मधुरः पाको यथोक्तं गुणं दोषं वा करोति| अस्मिन्व्याख्याने अभिमतव्याख्याधीनपाकप्राधान्येहेतुरुक्तो भवतीति नासङ्गतार्थत्वमस्य, यस्माद्रसं वीर्यं च तिरस्कृत्यान्त्यो विपाको गुणंदोषं वा जनयति, तेनविपाकः प्रधानमिति| सम्प्रति स्वाभिमतविपाकस्वरूपं दर्शयितुं पराभिमतविपाकान्युपन्यसति- तत्राहुरन्ये इत्यादि| प्रतिरसं पाकमेव विवृणोति- मधुरो मधुरस्याम्लोऽम्लस्येत्यादि| अत्र दृष्टान्तमाह- यथेत्यादि| प्रकीर्णा इत्युप्ताः| तेन शालियवादय उप्तप्ररूढाः फलिताश्च शालियवादिस्वरूपा एव भवन्ति, अत्रैवपक्षे मतान्तरमाह- केचित्पुनरित्यादि| अबलवन्तो रसा अल्पतया बलवतामित्युल्बणानां रसानां वशतां पराधीनतामल्पतामिति यावत्| तेन निष्ठापाकेन बलवता दुर्बलरसाभिभवान्न प्रतिनियमेन मधुरस्य मधुर एव पाकोऽम्लस्य वाऽम्लःपाक इत्यादि प्रतिनियमाभावादनवस्थितः पाक इत्यर्थः| मतान्तरं चरकस्याह- केचित्त्रिविधमित्यादि| एतच्च मधुरादिपाकत्रयं नैष्ठिकं| चरकमतं क्वचिद्रसद्वाराऽभिहितं| यथा- “कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा||” क्वचिद्द्रव्यद्वाराऽभिहितं ‘पिप्पल्यः कटुका मधुरविपाकाः’ इत्यादि| यदवस्थापाके “अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः| मधुरः प्राक् कफोद्भावात् फेनभूत उदीर्यते||” इत्यादिना चरकोक्तं, तन्नैष्ठिकपाकाभावादेवेहानधिकृतम्| उक्तानि परमतानि दूषयति- तत्तु न सम्यगिति| अत्रहेतुः- भूतगुणादिति| पृथिव्यप्तेजोवाय्वाकाशानांद्वैविध्यं भवतीत्यादिना वक्तव्यगुरुलघुलक्षणद्वैविध्येनद्विविधस्यैव पाकस्योपपन्नत्वादित्यर्थः| आगमादिति ‘आगमस्त्वाह’ इत्यादिनादर्शनीयः| पित्तस्य तु विदाहावस्थायामम्लपाकता भवति तया समं पाकत्रैविध्यं येऽभिमन्यन्ते तन्मतं चतुर्थलवणपाकप्रसङ्गेन दूषयन्नाह- पित्तं हि विदग्धमित्यादि| आगमादिति यदुक्तंतद्व्याकरोति- आगमस्त्वित्यादि| आगम इह धन्वन्तरिवचनं ‘द्विविधएव पाको मधुरः कटुकश्च’ इति| मधुरकटुपाकयोर्यथाक्रमं गुरुतां लघुतां च चिकित्सोपयुक्तां दर्शयति- तयोर्मधुराख्यइत्यादि| मधुरे गौरवस्य कटौ च पाके लाघवस्योपपत्तिंदर्शयन् भूतगुणादिति हेतुं च व्याकरोति- तत्रपृथिवीत्यादि| पञ्चानां भूतानां कथं द्वैविध्यमित्याह- तद्गुणसाधर्म्यादिति| अम्लपाकतया पित्तकरत्वं यथा- ‘मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः’, ‘उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः| कुलत्थाः’ इत्यादौ, तथा विपाकगुणे “पित्तकृत्सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः” इतिचरकोक्तं, तत् सर्वं सुश्रुते उष्णवीर्यकार्यं क्वचिद्द्रव्यस्वभाव इति स्वीक्रियते| तेन प्रमेये द्रव्यगुणे चरकसुश्रुतयोर्विप्रतिपत्तिर्नास्त्येव| यत्त्वत्र वक्तव्यं ‘पञ्चभूतात्मके देहे आहारः पाञ्चभौतिकः| विपक्वः पञ्चधा सम्यक् स्वान् गुणानभिवर्धयेत्’ इति| अनेन पञ्चधापाकोऽभिहितः, स द्रव्यस्वरूपचिन्तनीयो नैतत्पाकद्वयविरोधि, यथा पञ्चभूतात्मकेऽपिद्रव्याणां सौम्याग्नेयत्वाद् द्वैविध्यं भवति| या तु चरकेअवस्थापाकाभिधाने अन्तिमपाके कटुताऽभिहिता- ‘पक्वाशयं तु प्राप्तस्य शोष्यमाणस्यवह्निना| परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः’ इत्यनेन सा वातप्रकोपमात्रे हेतुः, नानेनमधुरपाकाधेयसृष्टमूत्रपुरीषतासम्यक्शुक्रजननादिविरोधिनीतिन विरोधः’ इति चक्रः| ‘तत्राहुरन्ये- प्रतिरसं पाक इति मधुरो मधुरस्याम्लोऽम्लस्येत्यादि| यथाशालियवादयः प्रकीर्णाः स्वभावमुत्तरकालोऽपि न परित्यजन्ति, तद्वदिति| केचित्पुनरबलवन्तो बलवतां वशमायान्ति तस्मादनवस्थितः पाक इति| केचित्त्रिविधमिच्छन्ति- मधुरमम्लं कटुकं चेति| तत्तु न सम्यक्, भूतगुणादागमाच्चान्योऽम्लःपाको नास्ति, पित्तं हि विदग्धमम्लतामुपैत्याग्नेयत्वात्| यद्येवं लवणोऽप्यन्यः पाको भविष्यति, श्लेष्मा हि विदग्धो लवणतामुपैतीति| आगमस्त्विह द्विविध एव पाको मधुरःकटुकश्च’ इतिचक्रसम्मतः पाठः|

१०. ‘सम्प्रति द्रव्यादिप्राधान्ये एकीयमतानि दर्शयित्वा स्वमतं सिद्धान्तरूपमाह- पृथक्त्वेत्यादि| पृथक्त्वेन एकैकश्योक्तेन द्रव्यादीनामितरप्राधान्यापवादपूर्वकंप्राधान्यं द्रष्टुं शीलं येषां ते पृथक्त्वदर्शिनः| एष इत्यनन्तरोक्तः| वादसङ्ग्रहः द्रव्यमेव प्रधानमित्यादिरूपो वादपरिग्रहः| एतत्पक्षविपरीतपक्षं सर्वप्राधान्यं सिद्धान्तरूपतया दर्शयन्नेव एकैकप्राधान्यपक्षान्निषेधयन्नाह- चतुर्णामित्यादि| समग्रस्येदं सामग्र्यं मेलकमित्यर्थः| अत्रेति प्राधान्यचिन्तायाम्| विपश्चित इति प्रामाणिकाः| तेन प्रामाणिकेच्छया मेलकस्यैव प्राधान्यं फलति| सामग्र्येण चेह धर्मेण समग्रा धर्मिण एव विवक्षिताः| यत्रद्रव्यप्राधान्यं तत्र रसादीनामप्राधान्यं, यत्र रसप्राधान्यं तत्र द्रव्यादीनामप्राधान्यमित्याद्यनुसरणीयम्’ इतिचक्रः|

११. ‘सामर्थ्यं’ इतिपा.|

१२. “एतदेव स्वस्वविषये द्रव्यादिप्राधान्यमाह- तदित्यादि| तदिति तस्मात् द्रव्यादिसामग्र्यप्राधान्यात्| अत्र द्रव्यमेव पञ्चमहाभूतविकारविशेषमन्नपानभेषजरूपंपाञ्चभौतिकशरीरस्य धातुवैषम्यरूपं दोषं विकारं वा धातुसाम्यरूपं दोषविकारोपशमंसमवायिकारणतया कुर्वन् कर्तृत्वेन व्यवस्थाप्यते| तदाश्रितास्तु द्रव्यशक्तिरूपा रसवीर्यविपाका यथायोगं निमित्तकारणतां समवायिकारणतां वा भजन्तो नकर्तृतया व्यपदिश्यन्ते, द्रव्यपराधीनत्वात्| यत्तु ‘मधुराम्ललवणा वातं घ्नन्ति’ इत्यादिना रसादीनामपि कर्तृत्वं व्यपदिश्यते, तद्रसादिप्राधान्यतया न तु परमार्थतः, तेषां नित्यं द्रव्यपराधीनत्वात्| तेन द्रव्यप्रभावादेव रसादिसाध्ये कार्ये द्रव्यमेव कर्तृतयोपदिशति- द्रव्यमात्मनेत्यादि| किञ्चिद्द्रव्यमात्मना शक्त्या प्रभावाख्यया दोषं हन्ति करोति वा| दोषमिति दोषशब्देन विकारोऽपि गृह्यते| शक्तिः द्रव्यस्य स्वरूपरूपा सामान्यविशेषात्मिका न्यायदर्शनसिद्धा वा भवतु, भट्टनयसिद्धावा तदतिरिक्ता कार्यगम्या भवतु, नेह तद्विचारः प्रयोजकः| उभयथाऽपि शक्तिसिद्धेः| इयमेव शक्तिस्तन्त्रान्तरे प्रभावशब्देन, इह चाचिन्त्यशब्देन व्यवहियते| रसविपाकाभ्यामितिसमासोपदेशेन भूयसाऽपि द्रव्यादीनां कार्यकर्तृत्वं सूचितम्| अत्र दोषहरणकरणाभ्यामेव सर्वद्रव्यकार्यावरोधः| तद्द्रव्यमात्मनेत्यादिना स्वकार्ये सर्वप्राधान्येऽपि मुख्यकर्तृतया द्रव्यं प्रधानमित्युक्तम्” इतिचक्रः|

१३. ‘सम्प्रति पाकाद्यपेक्षणीयतया पाकाद्याश्रयतया च द्रव्यप्राधान्यं दर्शयन्नाह- पाकोनास्तीत्यादि| शीतवीर्यं पृथिवीजलाश्रयं मधुरं गुरुं च पाकं निष्पादयति, तथा उष्णवीर्यमग्न्याश्रयमाकाशलाघवसहितंकटुकलघुपाकं च जनयति| द्रव्यमाधारकारणमितिविपाकवीर्यरसानां सर्वेषामेवाधारकारणतया द्रव्यं प्रधानमित्युक्तं भवति| किंवा विपाकादीनां स्वस्वकार्योपदर्शनमेतत्| यथा- द्रव्योपयोगानन्तरं रसः स्वकार्यं करोति, ततो वीर्यं परिणामावस्थायां कार्यं करोति, ततोऽन्ते विपाकः| तदुक्तं चरके- “रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया| वीर्यं यावदधीवासान्निपाताच्चोपलभ्यते” इतिचक्रः|

१४. ‘श्रेष्ठमतः’ इतिपा.|

१५. ‘अथ द्रव्यं चेद्रसस्य कारणं, कारणं च नावश्यं कार्यंजनयति, तत् किं रसं विनाऽपि द्रव्यं भवतीत्याशङ्कां निराकुर्वन्नाह- जन्म त्वित्यादि| तत्र द्रव्यं कार्यद्रव्यं धान्यफलवृक्षादि| जन्मशब्देन चाभिव्यक्तिरुच्यते’ इतिचक्रः|

१६. ‘अथ पाको नास्ति विना वीर्यादित्यादिना मुख्यतया रसं द्रव्याश्रयं प्रतिपाद्य रसाश्रयतया वीर्यस्यापि द्रव्याश्रयत्वं परम्परया प्रतिपादितं, सम्प्रति रसवद्वीर्यस्यापि द्रव्याश्रयत्वं प्रतिपादयन्नाह- वीर्यसञ्ज्ञा इत्यादि| अपिशब्दात् स्थूलसूक्ष्मादयो गुणा द्रव्याश्रयत्वेन गृह्यन्ते| अथ रसाश्रयाः पूर्वममीगुणा उक्ताः, तथा रसगुणकथनेन च ‘मधुरो रसःशीतः’ इत्यादिनारसाश्रया वीर्यादयो गुणा वक्तव्याः, तत् कथमिह द्रव्या उच्यन्त इत्याह- रसेषु न भवन्तीत्यादि| एतेनपरमार्थतो रसगुणे निर्गुणत्वाद् वीर्यरूपा गुणास्तथाऽन्ये सङ्ख्यादयो न भवन्त्येव| एकाश्रयतयातूपचारात् सुखेन द्रव्यगुणप्रतीत्यर्थं गौरवतयोच्यन्ते’ इतिचक्रः|

१७. ‘विपाकस्यापि द्रव्याश्रयत्वेन द्रव्यप्राधान्यमाह- द्रव्ये द्रव्याणीत्यादि| द्रव्ये आहाररूपे, द्रव्याणि आहारगतानि पृथिव्यादीनि, पच्यन्ते न रसा इतिरसानां परतन्त्रत्वेन स्वतन्त्रपाकाविषयत्वात्, द्रव्ये त्वग्निसंयोगात् पच्यमाने पाकाज्ज्ञायमानतया रसः पच्यत इति व्यपदिश्यत इत्यर्थः| यदा ‘द्रव्यं द्रव्येण’ इति पाठस्तदा द्रव्येणेति जठराग्निना, इति विशेषः| प्रकरणव्युत्पादितं द्रव्यप्राधान्यं निगमयति- द्रव्यं श्रेष्ठतममिति| शेषा भावा रसवीर्यविपाकाः’ इतिचक्रः|

१८. ‘इदानीं द्रव्यविषये परीक्षारूपमीमांसाया दर्शितत्वादचिन्त्यद्रव्यस्वभावेऽपिमीमांसा वो माभूदित्याह- अमीमांस्यानीत्यादि| अचिन्त्यानि यानि भेषजानि यथा दन्ती चित्रकसमाऽपि विरेचयति, लोहाकर्षकमणिर्लोहमाकर्षयतीत्याद्युक्तानिआगमावधारितानि मीमांसया अपरीक्ष्याणि| कथं तर्हि तानि ज्ञातव्यानीत्याह- प्रसिद्धानि स्वभावत इति| आगमादेव परं प्रसिद्धतमा भवन्तीत्यर्थः| एतेन यानि चिन्त्यानि भेषजानि तेषां मीमांसा कर्तव्यैव’ इति चक्रः|

१९. ‘आगमस्यैवात्र बलवत्त्वं दर्शयन्नाह- प्रत्यक्षेत्यादि| प्रत्यक्षेण लक्ष्यते दृश्यते फलं यासां दन्तीविषहरमणिप्रभृतीनां ताः प्रत्यक्षलक्षणफलाः| प्रसिद्धा इत्यागमप्रसिद्धाः| स्वभावत इत्यचिन्त्यस्वरूपतो विरेचकत्वस्तम्भनत्वविषहरत्वादेः| हेतुभिरित्यागमविरुद्धैःकुहेतुभिः| आगमानुगुणैः सद्धेतुभिर्भेषजादीनि सर्वाण्येव परीक्ष्याणि| स्वागमस्यानुमानाबाधनीयत्वमेवोदाहरणेनाह- सहस्रेणेत्यादि| अत्र ‘अम्बष्ठादिर्विरेचयति पृथिवीतोयगुणयुक्तत्वात्, त्रिवृतादिवत्’ इत्यादिबहुकुहेतुभिरपि आगमबाधितैर्नाम्बष्ठादिर्विरेचयति, किन्त्वागमोक्तं सङ्ग्रहणमेव करोति’ इति चक्रः|

25 views0 comments

Comments


Post: Blog2_Post
bottom of page